गांधीहत्या की गांधीवध? (संस्कृत व्याकरणदृष्ट्या विश्लेषण)

एकेकाळी महात्मा गांधींच्या खुनाच्या बाबतीत ‘गांधीवध’ हा शब्द वापरावा की ‘गांधीहत्या’, यावर मोठा वाद झाला होत्या. विसाव्या शतकातील सत्तरीच्या दशकाच्या उत्तरभागात ’गांधीहत्या आणि मी’ हे श्री० गोपाळ गोडसेंचे पुस्तक प्रसिद्ध झाल्यावर आणि विशेषतः पुढे नव्वदीच्या दशकाच्या उत्तरभागात ‘मी नथुराम गोडसे बोलतोय’ हे नाटक रंगमंचावर आले तेव्हा तथाकथित हिंदुत्ववादी मंडळी आणि तथाकथित गांधीवादी मंडळी यांच्यामध्ये या विषयावर त्वेषपूर्ण चर्चा झाल्या. परन्तु आजही हा प्रश्न विद्वानांनी निकालात काढलेला दिसत नाही….

समस्त भारतीयांच्या भावनांशी निगडित असलेला हा प्रश्न राजकीय नेत्यांनी किंवा संधीसाधूंनी नव्हे तर भाषातज्ज्ञांनी मार्गी लावणे आवश्यक आहे. म्हणूनच कुठल्याही राजकीय हेतूने नाही तर केवळ भाषाशास्त्रीय कुतुहलातून केलेल्या संस्कृत व्याकरणीय विश्लेषणातून लिहिलेला व ‘गुञ्जारवः’ ह्या संस्कृत त्रैमासिकात प्रसिद्ध झालेला हा श्री० सलील कुळकर्णी ह्यांचा लेख व त्या लेखाचे मराठी भाषांतर खालील दुव्यावर वाचू शकता. ह्या लेखात मांडलेले विचार कितपत खरे किंवा खोटे ह्यावर संस्कृत भाषेच्या विद्वानांनीच एकमेकांत चर्चा करून निश्चित निर्णय देणे उचित ठरेल.

Amrutmanthan_Gandhi-hatya or Gandhi-vadha_Sanskrit & Marathi articles_120712

.

मूळ संस्कृत लेख खालीलप्रमाणे आहे.

हत्या उताहो वधः ?

(‘गुञ्जारवः’ नामकस्य त्रैमासिकस्य ‘चैत्र-ज्येष्ठ-१९३४’-अंङ्के प्रसिद्धः लेखः ।)

महात्मनः गांन्धिमहोदयस्य हननपश्चात् ‘अयं वधः उताहो इयं हत्या’ इत्ययं विषयः वादप्रतिवादरूपेण जनैः बहुचर्चितः । विंशतेः शतकस्य साप्ततिक-दशकस्य उत्तरखण्डे गोपाळ-गोडसे-महोदयस्य ‘गांधीहत्या आणि मी’-नामके मराठीपुस्तके प्रकाशिते तथा च विशेषतः परस्तात् नावतिक-दशकस्य उत्तरखण्डे प्रदीप-दळवी-महोदयस्य ‘मी नथुराम गोडसे बोलतोय’-नामके मराठीनाटके रङ्गभूमौ अवतीर्णे तथाकथिताः हिन्दुत्ववादिनः तथा च तथाकथिताः गान्धिवादिनः च जनाः प्रस्तुतविषयं परस्परं सत्वेषं चर्चितवन्तः । परन्तु अद्ययावत्‌ अस्य प्रश्नस्य सम्यक् उत्तरं विद्वज्जनैः न उपन्यस्तम्‌ ।

गान्धिमहात्मनः हननं ‘वधः’ इति शब्देन आख्यातुम् आक्षिपद्भिः जनैः वधशब्दे ‘वैधं, नीतिपूर्णं च व्यापादनम्’ इति अर्थः गृहीतः । तथा च हत्याशब्दे तैः ‘अवैधं, नीतिविरुद्धं हननम्‌’ इति अर्थः अभिप्रेतः इति दृश्यते । प्रायेण गान्धिविरोधकाः अपि न भिन्नं मन्यन्ते । अत एव केवलं गान्धिवादिनां वितोदनार्थं गान्धिविरोधकाः गान्धिवध: इति शब्दं प्रयुञ्जते । परन्तु अत्र वध इत्यस्य कः रूढार्थः, योगार्थः वा? हत्या इत्यस्य न्यायरूपेण कः अर्थः भवेत्? इति संशोधयितुं सत्यशोधनजिज्ञासया अल्पं स्वाध्यायाभ्यासनं कृत्वा अस्मिन् विषये मया इदं मुक्तचिन्तनं प्रस्तूयते ।

मोनियर-विल्यम्समहाशयः, आपटेमहाशयः इति लेखकद्वयलिखितौ शब्दकोशौ मया अस्मिन्‌ सन्दर्भे अवलोकितौ । उभयोः संस्कृतशब्दकोशयोः मया ‘वध’ च ‘हत्या’ च इति द्वयोरपिः शब्दयोः अर्थौ बहुशः अभिन्नौ दृष्टौ ।

मोनियर-विल्यम्समहाशयस्य शब्दकोशे निम्नलिखिताः अर्थाः दत्ताः ।

वध = the act of striking or killing, slaughter, murder, death, destruction.

हत्या = killing, slaying, slaughter.

शब्दकोशेऽस्मिन् ‘गोवधः’-‘गोहत्या’, ‘स्त्रीवधः’-‘स्त्रीहत्या’, ‘ब्राह्मणवधः’-‘ब्राह्मणहत्या’, ‘भ्रूणवधः’-‘भ्रूणहत्या’, ‘पितृवधः’-‘पितृहत्या’ एतादृशानि द्विप्रकारकाणि उदाहरणानि लभ्यन्ते । अपरं च ‘कंसवधः’, ‘बकवधः’, ‘कीचकवधः’, ‘शिशुपालवधः’, ‘रावणवधः’ इत्यादीनि वधपदान्तानि रामायण-महाभारतयो: उदाहरणानि अपि तत्र निर्दिष्टानि । परंतु ‘कंसहत्या’, ‘बकहत्या’, ‘कीचकहत्या’, ‘शिशुपालहत्या’. ‘रावणहत्या’ इत्यादयः हत्यापदान्ताः शब्दप्रयोगाः न दृष्टाः ।

अपरपक्षे आपटेमहाशयस्य शब्दकोशे इमे अधोलिखिताः शब्दार्थाः उपलब्धाः ।

वधः = killing, murder, slaughter, destruction.

हत्या = killing, slaying, slaughter, murder, particularly criminal killing.

उपर्युल्लिखितनिर्देशेभ्यः अहं एवं प्रतिपादयितुम्‌ इच्छामि ।

मोनियर-विल्यम्समहाशयः प्रायः ‘वधः’ च ‘हत्या’ च शब्दौ अभिन्नौ मन्यते । अत्र केवलम्‌ एकः संकेतः गृहीतः दृश्यते । यदा व्यापादितः प्राणी कोऽपि व्यक्तिविशेषः भवति, तत्र व्यापादनसूचकशब्दे ‘वधः’ इति उत्तरपदम् एव युज्यते, न तु ‘हत्या’ । एषः एक एव अर्थभेदः वधहत्याशब्दयोः मध्ये विद्यते, इत्यस्ति मम निरीक्षणम् ।

पुराणेषु पुरातनकथासु च प्रायः कथानायकेन घातितः पुरुषः दुष्प्रवृत्तः खलनायकः भवति स्म । अतः तदनु संस्कृतभाषानभिज्ञैः अस्मादृशैः सामान्यजनैः ‘दुर्जनस्य व्यापादनं नाम वधः’ इति अनुमितम् । अथ तस्मादेव ‘सुजनस्य हननं नाम हत्या’ इति ऊहितम् इति मम तर्कः । परंतु महाभारते भीष्मपर्वद्रोणपर्वयोः मध्ये ‘भीष्मवधपर्व’, ‘द्रोणवधपर्व’ इति उपपर्वणी वर्तेते । महाभारते च अभिमन्योः हननम्‌ अपि अभिमन्युवधः इत्येव निर्दिष्टम् । तस्मात् पुरा संस्कृतभाषायाम् आदरणीयपुरुषाणां व्यापादनम्‌ अपि ‘वधः’ इति शब्देनैव सर्वदा वर्णितम् इति सुस्पष्टं दृश्यते ।

अत्र आपटेमहाशयेन हत्यासंबंधे उल्लिखितः ‘particularly criminal killing’ इति अर्थच्छटाविशेषः परीक्षणीयः । ‘ब्राह्मणहत्या’, ‘गोहत्या’, ‘स्त्रीहत्या’, ‘भ्रूणहत्या’, ‘अनागोहत्या’ इत्यादीनि व्यापादनानि नाम धर्मशास्त्रनिषिद्धाः एव कृतयः, अतः ताः ‘हत्या’ इत्येव शब्देन व्याख्याताः इति मम अनुमानम् । अपरपक्षे युद्धे रिपूणां निर्दालनं योधानां क्षत्रियाणां  च धर्मकर्तव्यमेव  नैव अधर्माचरणम् मतम्‌ । अतः व्यक्तिविशेषाणां  रिपूणां हननं सर्वदा ‘वधः’ इत्येव ख्यातम् ।

अतः संक्षेपतः उदाह्रियते, कस्यचिद्‌ व्यक्तिविशेषस्य व्यापादनं, न्याय्यं वा अन्याय्यं वा, शोभनं वा अशोभनं वा, ‘वधः’ शब्देनैव निर्देष्टव्यम्‌ न कदापि ‘हत्या’ शब्देन । नथुरामेण सापत्नत्वात् आचरितं गान्धिमहात्मनः हननकृत्यं आत्यन्तिकं गर्हणीयम् एव इत्यत्र न शङ्कालेशोऽपि विद्यते । तथापि यतः तत्कृत्यं तत्त्वाधिष्ठितशत्रुभावस्य परिणतिः आसीत्‌, तस्मात् नथुरामकृतं व्यापादनं ‘गान्धिवधः’ इत्येव संज्ञातव्यम् न ‘गान्धिहत्या’ इति मम सविनयं प्रतिपादनम् ।

उपर्युल्लिखितायाः उपपत्त्याः इन्दिरा-गान्धि-महोदयाः, राजीव-गान्धि-महोदयस्य, श्यामाप्रसाद-मुखर्जी-महोदयस्य इत्यादीनि व्यापादनानि ‘वधाः’ इत्येव मन्तव्यानि । किं च, भगतसिंह-राजगुरु-सुखदेव-प्रभृतेः देहान्तशासनम् अपि ‘वधः’ शब्देनैव वर्णनीयं न तु ‘हत्या’ शब्देन ।

मम अनेन प्रतिपादनेन प्रायः उभयगणौ, गान्धिवादिनः, गान्धिविरोधकाः च, खिन्नौ भवेताम्‌ । यतः गान्धिमहात्मनः सर्वाणि तत्त्वानि परिभूय क्षुद्रविषये च अलीकेन गान्धिप्रेम प्रदर्श्य आत्मनः गान्धिवादिनः इति उद्घोषयतां दाम्भिकानां राजकारिणां प्रयत्नाः विफलाः संपत्स्यन्ते । अपरपक्षे च गान्धिमहात्मानं तिरस्कारात्‌ गान्धिवादिनः च उपहासात्‌ हर्षं प्राप्नुवतां गान्धिविरोधिनां चेष्टाऽपि निरर्थिका भवेत्‌ ।

भाषाशास्त्रकोविदा एव अत्र निश्चितं सत्यप्रकाशनं कर्तुमर्हन्ति ।

किं चिन्तयन्ति भवन्तः वाचकाः अस्मिन् विषये ?

—————————-

‘गुञ्जारवः’ संस्कृत-त्रैमासिकम्‌ ।

वार्षिकं शुल्कम्‌ – रू० ६०.००, आजीवनं सदस्यत्वम्‌ – रू० १,०००.००

पत्रव्यवहारसङ्केतः – ‘गीतायनम्‌’, सर्वेक्षण क्र० ३९/१/१-अ, भूखण्डः क्र० ७, नरहरिनगर-समीपे, गुलमोहरः पथः, अहमदनगरम्‌ – ४१४००३. दूरध्वनिः – (०२४१) २४२२४४०, चलभाषः ९८९०८४५४५८. विपत्रम्‌ – dkkharwandikar@yahoo.in

—————

ह्या लेखाबद्दलची आपली मते, सूचना, प्रस्तुत लेखाखालील चर्चाचौकटीत अवश्य नोंदवा.

– अमृतयात्री गट

.

आपला अभिप्राय इथे नोंदवा.

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदल )

Twitter picture

You are commenting using your Twitter account. Log Out / बदल )

Facebook photo

You are commenting using your Facebook account. Log Out / बदल )

Google+ photo

You are commenting using your Google+ account. Log Out / बदल )

Connecting to %s